responsive image

 

प्राचार्यस्य सन्देशः

   श्रीविन्दुवासिनी–संस्कृत–विद्यापीठं नेपाल–संस्कृत–विश्वविद्यालयस्याङ्गिकं विद्यापीठमस्ति । विक्रमाब्दस्य पञ्चाशदुत्तरद्विसहस्रतमे वर्षे स्थापितमिदं विद्यापीठं प्रसिद्धायाः पोखरानगर्या भीमकालीपाटने शुक्लागण्डक्याः पावने तटे (पृथ्वीनारायणमहाविद्यालयं निकषा ) वर्तते । पश्चिमाञ्चले (गण्डकीप्रदेशे) संस्कृतस्योच्चशिक्षाया आवश्यकतामनुभूय संस्कृतानुरागिणां जनानां शिवसङ्कल्पेन तेषामर्थिक– साहाय्येन च स्थापितमिदं विद्यापीठं पौरस्त्यवाङ्मयस्य संरक्षणसंवर्धनविधौ दत्तावधानमस्ति ।

   संस्कृते किन्न वर्तते ? अपितु सस्कृते सर्वं ज्ञानविज्ञानरहस्यं अन्तर्निगूढमस्ति । विश्ववाङ्मये संस्कृतस्य महत्त्वपुर्ण स्थानं विद्यते । वेदाः, उपनिषदः, पुराणानि, इतिहासः, धर्मशास्त्रम्, दर्शनानि, योगः, वास्तुशास्त्रम्, व्याकरणम्, साहित्यम्, ज्यौतिषम्, औषधविज्ञानम्, सङ्गीतम्, इत्यादीनि ज्ञानविज्ञानसम्बद्धानि शास्त्राणि संस्कृतस्य अनर्घाणि रत्नानि । यः संस्कृतं न जानाति स आत्मानमपि न जानाति ।

जनाति विविधा विद्या जानाति विविधाः कलाः ।
आत्मानं नैव जानाति यो न जानाति संस्कृतम् ।।

  इति भणितिरपि प्रसिद्धा । भौतिकविज्ञानस्य चरमोपलब्धिभूते भोगविलासमये समये जनाः स्वार्थवशीभूता दृश्यन्ते, समाजोऽपि द्वन्द्वग्रस्तः कलहजर्जरित इव प्रतीयते । गेहे गेहे,जने जने, समाजे, राष्ट्रे च अनुशासनस्य, विनयस्य, मित्रतायाः, दयायाः, सहभावस्य च न्यूनतास्ति । एतादृशे विकराले कलिकाले संस्कृतज्ञानमावश्यकम् । यान्त्रिकोऽयं युगः । विशेषतः कम्प्युटरयुग इति जना वदन्ति । विश्वस्मिन् विश्वे यावत्यो भाषाः सन्ति, तासु कम्प्युटरयन्त्रे परमोपयोगिनी वैज्ञानिकी च भाषा संस्कृतमेवेति विज्ञानेनापि प्रमाणितम् । न केवलं नेपालभारतयोः पाश्चत्यदेशेस्वपि संस्कृतं पाठ्यत इति विश्वसमुदायः संस्कृतं प्रत्याकृष्टो वर्तते । कतिपये वैज्ञानिकाः पौरस्त्यवाङ्मयस्य वैज्ञानिकं रहस्यं गवेषमाणाः सन्तीति प्रमोदस्य विषयः । एतेन संस्कृतस्य सार्वभौमं महत्वं प्रतिदिनं बर्धमानमस्तीति वक्तुं शक्यते । सच्चरित्रेण सार्धं सभ्यसमाजनिर्माणं संस्कृताध्ययनस्य मुख्यं लक्ष्यम् । एतल्लक्ष्यप्राप्त्यर्थं विन्दुवासिनी– संस्कृत– विद्यापीठं स्थापनकालतो बद्धपरिकरं वर्तते । विद्यापीठस्थापनाया अष्टाविंशतिर्वर्षाणि व्यतितानि । अत्र युगपत् पौरस्त्याधुनिकविषयाणां अध्ययनं जायते । प्राच्यविषयेषु व्याकरणम्, साहित्यम्, ज्यौतिषम्, आधुनिकविषयेषु नेपालीसाहित्यम्, अंग्रेजी साहित्यञ्च पाठ्यते । अस्माद् विद्यापीठात् समुत्पादिताः सुयोग्याः स्नातकाः देशविदेशेषु कार्यरताः सन्ति । अत्र सुयोग्याः प्राध्यापकाः, कार्यकुशलाः कर्मचारिणःसन्ति । संस्कृतवाङ्मयेऽन्तर्निगूढानां विषयाणामनुसन्धानस्योद्देश्येन एका अनुसन्धानसमितिः संघटितास्ति । अस्या माध्यमेन अत्रत्याः प्राज्ञिकगतिविधयः प्रकाशयिष्यन्ते । आगामिनः शैक्षिकवर्षात्स्नातकोत्तर –(आाचार्यः) कक्षासञ्चालनाय विद्यापीठं समुद्यतं विद्यते । आगच्छन्तु सर्वे वयं एकीभूय संस्कृतस्य जागरणाय यतामहे ।  स्वागतम् स्वागतम्, सुस्वागतम्।

डा. जगन्नाथरेग्मी

Message from the Campus Chief:

  Vinduwasini Sanskrit Campus is one of the constituent campuses of Nepal Sanskrit University. It is located at Bhimkalipatan, Bagar, Pokhara, near Shukla Gandaki River. It was established in 1993 by the initiation of Sanskrit lovers of Gandaki region. It aims to promote and impart Sanskrit language, its philosophy, literature, and knowledge throughout the country.

   Sanskrit is considered the mother of most of all Indo European languages. It contains in depth knowledge of science, philosophy, astronomy, rituals, customs, traditions, etc. Sanskrit literature holds important place in the literary world. Vedas, Upanishads, Purans, Itihas (History), Dharmashastra, Darshan, Yoga, Vastushastra, Vyakaran, Sahitya, Jyotish, Medicinal Science, Music, etc. are its essential components.There is a common saying that one who does not understand Sanskrit, in fact, understands nothing. All these imply the growing importance of Sanskrit in the world.

   Today’s world values material growth more than the spiritual one. So this world lacks the values of discipline, morality, fraternity, and compassion. People wage wars for their personal petty interests rather than for the sake of humanity. In such an age of turmoil, the essence of Sanskrit can provide the healing effects. In this techno age, Sanskrit language is the only language a computer can understand distinctly. It is a subject not only of India and Nepal, but its interests and significances are equally growing throughout the globe. As a result, its popularity is increasing. Many scholarly researches are exploring and interpreting the hidden treasures of this subject with multidimensional perspectives.

   One of the chief features of Sanskrit is to cultivate moral characters for the sound civic society. Vinduwasini Sanskrit Campus has been prioritizing such values since its establishment. This 28 years old institution teaches subjects like Sanskrit, English and Nepali Literature on equal basis. Prachin (traditional) subjects comprise of Vyakarana (Sanskrit Grammar), Sahitya (Sanskrit Literature) and Jyotish (Astrology) while Aadhunik (modern) subjects comprise of English and Nepali Literature. It has a teaching faculty of 21 members and non-teaching faculty of 7 members. The institution has been producing efficient, competent, and morally high students from the day of its establishment. Some of them have been engaging in the national and international areas on the basis of their capacity and knowledge. It is focusing to run postgraduate courses in near future.

    Vinduwasini Sanskrit Campus has constituted a Research Committee to crystallize the important aspects of Sanskrit precepts, rules or compendium in the society. It may further boost to foster the academic activities in the college. Let us walk together to disseminate the essence of Sanskrit education to construct a genuine moral and civil society. May the radiance of Sanskrit flow to guide and enrich the entire humanity in the days to come!
Dr. Jagannath Regmi