श्रीविन्दुवासिनी–संस्कृत–विद्यापीठस्य परिचयः

   पतितपावन्याः श्रीशुक्लागण्डक्या वारिधारयाऽविरतमभिषिच्यमानस्य कश्पर्षेस्तपस्थलीभूतस्य कास्कीमण्डलस्य पोखरानगरेऽवस्थितं श्रीविन्दुवासिनी–संस्कृत– विद्यापीठं देवदेशनेपालस्य पश्चिमाञ्चलक्षेत्रस्य उच्चस्तरीय–संस्कृतशिक्षायाः केन्द्रत्वेन विराजते । कास्कीमण्डलस्थानां संस्कृतानुरागिणां शिक्षाप्रेमिणां समाजसेविनाञ्च अविश्रान्तप्रयत्नेन ऊनपञ्चाशदधिकद्विसहस्र– (वि. सं २०४९ ) तमे वैक्रमाब्दे संस्थापितेऽस्मिन्विद्यापीठे २०५०÷२०५१ शैक्षिकाब्दात्उत्तरमध्यमस्तरीया कक्षा प्रारब्धा । ऐतिहासिककालादेव विद्यायाः केन्द्रत्वेन प्रख्यातेऽस्मिन् कास्कीमण्डले तन्निकटवर्तिक्षेत्रेषु च सतीष्वपि बह्वीषु माध्यमिक–स्तरीयसंस्कृतपाठशालासु उच्चस्तरीय–संस्कृत–शिक्षाप्रदायक–संस्थाया अभावप्रकर्षान्विते समये तदभावपूरणपूर्वकं पौरस्त्यज्ञानविज्ञानादिक्षेत्रेषु दक्षजनशक्तिमुत्पादयितुं श्री संस्कृत–माध्यमिकविद्यालयस्याधारभूमाौ पं . गङ्गाधरशास्त्रिणः संरक्षकत्वे, आचार्योपाह्वश्रीलीलाभक्तस्य संयोजकत्वे श्रीरामबरालस्य व्यवस्थापकत्वे च विद्यापीठस्यास्य बीजमाहितमासीत् । तदनु २०५३ वैक्रमाब्दाद् नेपाल–संस्कृत–विश्वविद्यालयस्याङ्गिक–विद्यापीठत्वेन विश्वविद्यालयस्य नीतिनियमानुसारेण नेपालसर्वकारस्य पूर्णानुदाने सञ्चालितमिदं विद्यापीठं तात्कालिकानां नेपालनरेशानां श्रीपञ्चकानां वीरेन्द्रवीरविक्रमशाहदेवानाम्, भारतस्थ–काञ्चीकामकोटीपीठाधीशानां श्रीमतां जयेन्द्रसरस्वतीमहाराजानां तथा चानेकेषां महामनस्विनां कृपामयाशीर्वादेन समये समये पोषितं वर्तते ।

   शनैः शनैर्भाैतिकविकासं प्राप्नुवत्यस्मिन् विद्यापीठेऽधुना शिक्षणभवनम्, सभाकक्षः, सौविध्यसम्पन्नच्छात्रावासः, भोजनागारम्, पुस्तकालयः, क्रीडाभूमिः, इत्यादिका भौतिकसंरचनाः सम्पन्नाः सन्ति । एतासां संरचनानां निर्माणे पुस्तकादिशैक्षिकसामग्रीणां सङ्कलने च महत्त्वपूर्ण योगदानं कुर्वन्तः पं. डाशु आचार्यस्य परिवारसदस्याः (पुस्तकालयनिर्मातारः, सरस्वतीमन्दिरनिर्मातारश्च) ईं. किरीटी– सुवेदी (भोजनकक्षनिर्माता) भीमराजरेग्मी (पुस्तकदाता) एवं चान्ये पुण्यात्मानः स्मरणीयाः सन्ति । आधुकिशिक्षया सह पौरस्त्यविद्यायां पारङ्गतानां दक्षजनानामुत्पादनाय प्रयत्नरतेऽस्मिन् विद्यापीठेऽधुना पौरस्त्यवाङ्मयस्य नव्यव्याकरण–साहित्य–ज्यौतिषादिषु विषयेषु तथा चाधुनिकेषु आङ्गलनेपाल्यादिषु विषयेषु कक्षाः प्रचलन्ति । निकटभविष्यति आचार्यस्तरीयकक्षायाः स्वीकृतये सञ्चालनाय च विद्यापीठप्रशासनं यतमानं वर्तते । इदानीं प्राक्शास्त्रीस्तरे, शास्त्रिस्तरे च राष्ट्रस्य विभिन्नस्थानेभ्यः समुदायेभ्यः,वर्णेभ्यश्च समागताः शताधिकाश्छात्राः विद्यापीठे अधीयानाः सन्ति ।

   विद्यापीठादद्यावधि उत्पादिताः स्नातकाः राष्ट्रसेवायाः,समाजसेवायाश्च विविधेषु क्षेत्रेषु यथा सर्वकारीयप्रशासनसेवायाम्, विश्वविद्यालयीयप्राध्यापनसेवायां, राजनीतौ, कर्मकाण्डानुष्ठानादिषु, ज्यौतिषतन्त्रादिषु, पत्रकारितायाम्, साहित्ये, सङ्गीतादिषु च कार्यरताः सन्तः स्वस्य योग्यतां विद्यापीठस्य गुणस्तरं च प्रदर्शयन्तः सन्ति ।

   इतः परं न केवलं शास्त्रीयाणामेव विषयाणामपि तु प्रयोगात्मकानां सार्वजनीनानां योगायुर्वेदप्राकृतिकचिकित्सादीनां विषयाणामध्यापनम्, समाजस्य प्रत्येकं स्तरेषु नीतिप्रधानचेतनायाः प्रसारणम् इत्यादिका विद्यापीठस्य भावियोजना वर्तन्ते ।

   विद्यापीठस्य गतिविधीनां प्रसारणं प्राज्ञिकोन्नतये अनुसन्धानात्मकलेखानां रचनं प्रकाशनं च वेभसाइट– निर्माणस्य मुख्यं प्रयोजनमस्ति । अत्र भवतां सर्वेषां स्वागतं कुर्मः । स्वागतम्सुस्वागतम्।

Introduction:

   Vinduwasini Sanskrit Campus lies at the center of Pokhara, Kaski, Gandaki Province, Nepal. It is one of the constituent campuses of Nepal Sanskrit University. It is a non-profit academic institution. It was established in 1993 with the initiation of Sanskrit educationists and social workers. It offers undergraduate courses of four years, in classical and modern subjects. It is currently running courses like Vyakarana (Sanskrit Grammar), Sahitya (Sanskrit Literature), Jyotish (Astrology), English, and Nepali Literature. It started running Uttarmadhyama (Intermediate level) formally in 1994.

       There is a common belief that Sage Kashyap merged in penance a long ago, in the midst of nature, in the Kaski region. Since then it has been recognized as a center of learning. Although it was rich in Sanskrit schools, it was lacking a higher Sanskrit educational institution. To fulfill this need, this institution was incepted with a motto to produce competent human resources to boost of Sanskrit, its philosophy, language, and literature. Its foundation was laid under the patron ship of Pandit Gangadhar Shastri along with the coordination of Lilabhakta Acharya and administration of Shreeram Baral. It became a constituent college of Nepal Sanskrit University in 1997. It has gained its importance more after a visit of then His Majesty the King Birendra Bir Bikram Shah Deva and Sangkaracharya, Shree Jayendra Saraswoti from India.

   Vinduwasini Sanskrit Campus has an academic building for teaching, learning, and administrative purposes. It has a well-furnished hall for meetings and seminars, a hostel for borders, a canteen for meals and snacks, a well-equipped library for reading and researches, and a playground for games and sports. Pandit Dasu has a contribution in the construction of a library and a Saraswoti Temple in its premises. Kiriti Subedi has a contribution in the construction of a canteen, and Bhimraj Regmi has a contribution in the purchasing of books and furniture for the library. It has a plan for running postgraduate programmes shortly. Students from different communities have been pursuing their higher education in it. The passed out students have been earning reputation in the different arenas of life namely by serving as administrators, politicians, educationists, ritual practitioners, astrologers, tantric, journalists, creative writers, musicians, and so on.

   Along with the teaching of ancient and modern literature, Vinduwasini Sanskrit Campus has a future plan to conducting Yoga classes, Ayurveda, Naturopathy, etc. It equally looks for imparting knowledge based on the principle of social awareness in each and every sector of the society.